हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी॥ २९६॥
२. यत्नः सम्बन्धनिर्ज्ञातहेतुः कोऽपि कृतो यदि।
क्रमलङ्घनमप्याहुर्निर्दोषं सूरयो यथा॥ २९७॥
बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः॥ २९८॥