यदा तीव्रप्रयत्नेन संयोगादेरगौरवम्।
न च्छन्दोभङ्गमप्याहुस्तददोषाय सूरयः॥ २९९॥
जह ण्हाउं ओइण्णे अब्भन्तमुल्हासिअमंसुअद्धन्तं।
तह अण ण्हाओ सि तुमं सच्छे गोलाणईतूहे॥ ३००॥
(यथा स्नातुमवतीर्णे आर्द्रीभूतमुल्लासितमंशुकार्धान्तम्।
तथा च न स्नातो भवसि त्वं स्वच्छे गोदानदीतीर्थे॥)
३. अस्थानविंरति यतिभ्रष्टम्—
स्वरसन्ध्यकृते प्रायो धातुभेदे तदिष्यते।
नामभेदे च शेषेषु न दोष इति तद्विदः॥ ३०१॥