'कमले इव लोचने इमे अनुबन्धाति विलासपद्धतिः॥ ३०७॥'
न ऋचस्त्वं न यजूंषि ऊहसे॥ ३०८॥'
पदानां व्युत्क्रमो यत्र क्रमेण व्युत्क्रमेण वा।
तद् व्याकीर्णं विदुस्तस्य न दोषः कोऽपि तद् यथा॥ ३०९॥
जुगुप्सत स्मैनमदुष्टभावं मैवं भवानक्षतसाधुवृत्तः।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः॥ (जाह. १.८५)
५. पर्यायेण द्वयोर्यत्र वाक्यं प्रश्नोत्तरादिषु।
सङ्कीर्णं तन्न दोषाय वाकोवाक्यविदो विदुः॥ ३११॥