अपदं तस्य चानुज्ञा भाषाचित्रेषु तद्यथा॥ ३१४॥
हा तो जो ज्जलदेउ नैव पदनः साक्षादयं भूतले
तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते।
ऐ पच्छा किअलेउ भूतपतिना गौरीविवाहोत्सवे
ऐसें सच्च जि बोल्लु हस्तकटकः किं दर्पणेनेक्ष्यते॥ ३१५॥
८. अशरीरं क्रियाहीनं क्रियापेक्षा न यत्र तु।
यत्रास्त्यादेरपेक्षा वा न दोषस्तत्र तद्यथा॥ ३१६॥
कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप।
तथापीयमवस्था ते न सर्वत्र भवादृशाः॥ ३१७॥
यत्रोपमाने धर्माः स्युर्नोपमेयेन सम्मिताः।