तदूनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति॥ ३१८॥
यथा— (भामहा. २.४१,४२,४३,४४)
स मारुताकम्पितपीतवासा बिभ्रत् सलीलं शशिभासमब्जम्।
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे॥ ३१९॥
शक्रचापग्रहादत्र दर्शितं किल कार्मुकम्।
वासः शङ्खानुपादानादूनमित्यत्र चोच्यते॥ ३२०॥
सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित्।
यथोपपत्ति कृतिभिरुपमानं प्रयुज्यते॥ ३२१॥
अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति।
यत्किंचित्कान्तिसाम्यात्तु शशिनेवोपमीयते॥ ३२२॥