तत्र लिङ्गभेदे न दोषो यथा—
अन्यदा भूषणं पुंसः शमो लज्जेव योषितः।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥ ३२७॥
आज्ञा इव जगन्मृत्योः प्राणा इव नयश्रियः।
गृहा इव तपस्सिद्धेर्दारा इव विभोर्गतिः॥ ३२८॥
१०. श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः।
गौडीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात्॥ ३२९॥