अनिवादिशब्दा यथा—(काव्याद. २.४९)
दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्।
असुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया॥ ३४३॥
असादृश्या यथा—(माघ. १६.५२)
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव॥ ३४४॥
वाक्योपमाया एव प्रकारः प्रपञ्चोपमा।
सापि द्विधा— प्रकृतरूपा विकृतरूपा च। तयोः
प्रकृतरूपा चतुर्धा— समस्तोपमा, एकदेशोपमा, मालोपमा रशनोपमा च। तासु समस्तोपमा यथा—(रिद्रटा. ८.३०)
अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते।