चन्द्रायते शिक्लरुचाथ हंसो हंसायते चारुगतेन कान्ता।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः॥ ३४८॥
विकृतरूपापि चतुर्धैव— विपर्यासोपमा, उभयोपमा, उत्पाद्योपमा, अनन्वयोपयोपमा च। तासु —
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्नमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षमयते॥ ३४९॥
उभयोपमा यथा—(काव्याद. २.१८)
त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम्।
निलीनां नलिनीखण्डे कथं नु त्वां लभेमहि॥ ३५०॥