दुर्जनसुजनस्वरूपं यथा कादम्बर्याम्—
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव।
मनस्तु साधुध्वनिभिः पदेपदे हरन्ति सन्तो मणिनूपुरा इव॥ ३६६॥
दुष्करसमसंस्कृतादिसर्गत्वमित्यनेन गोमूत्रिकामुरजबन्धैकाक्षरपादयमकमाषा— चित्रादय उपलक्ष्यन्ते। तेषु —
गोमूत्रिका यथा किरातार्जुनीये—(किराता. १५.१२)
नासुरोऽयं नवा नागो धरसंस्थो न राक्षसः।
नासुखोऽयं नवाभोगो धरणीस्थो हि राजसः॥ ३६७॥
मुरजबन्धो यथा शिशुपालवधे—(माघ.१९.२९)
सासेना गमनारम्भे रसेनासीदनारता।
तारनादजनामत्तधीरनागमनामया॥ ३६८॥