ननु चाश्वासकबन्धेषु तत्समाप्तावपि न च्छन्गोभेद उपलभ्यते। तथा हि रावणविजय—हरिविजय—सेतुबन्धेषु आदितस्समाप्तिपर्यन्तमेकमेव च्छन्दो भवति। गलितकानि तु तत्र १व्यासकष्टवत् कैरपि विदग्धमानिभिरुपक्षिप्तानीति तद्विदो भाषन्ते।
मैवम्; मात्राच्छन्दसां स्कन्धकादीनां छन्दोविचितिष्वेकैकस्याप्यनन्तभेदत्वात्। अन्ये तु भिन्नवृत्ताः सर्गान्ताः पर्वकाण्डसर्गा एतेष्विति व्याचक्षते। तेनायमर्थः संपद्यते
१. व्यासाष्टकवदिति तु स्यात्।
पर्वणिपर्वणि काण्डेकाण्डे सर्गेसर्गे चान्यदन्यच्छन्दो निबन्धनीयमति। आश्वासकसन्धिबन्धयोस्तु सर्वत्र एकमेव च्छन्दो भवति।
तन्न सम्यक्; आश्वासकबन्धेऽपि भिन्नवृत्तान्तत्वदर्शनात्। तद्यथा हरिप्रबोधे आर्यागीतिच्छन्दोनिबन्धक आश्वासकान्ते पुष्पिताग्रा—
भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम्।
गतमससितया(?) विभावरीणां सघनमहस्समताविभावरीणाम्॥ ३७२॥
सन्धिबन्धेषु च नाराचतोटकादीनि विचित्राणि च्छन्दांसि दृश्यन्ते। एकेनेव अनुष्टुब्जात्यादिना छन्दसा बहवः सर्गकाण्डादयो रघुवंश—रामायणादिषूपलभ्यन्ते। तस्मादुपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्येतदेव व्याख्यानं श्रेयः। तद्यथा कुमारसम्भवे—(कुसं.२.६४)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ३७३॥