भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1281 to 1290 of 1530 verses
ननु चाश्वासकबन्धेषु तत्समाप्‍तावपि न च्छन्गोभेद उपलभ्यते। तथा हि रावणविजय—हरिविजय—सेतुबन्धेषु आदितस्समाप्‍तिपर्यन्तमेकमेव च्छन्दो भवति। गलितकानि तु तत्र १व्यासकष्टवत् कैरपि विदग्धमानिभिरुपक्षिप्‍तानीति तद्विदो भाषन्ते।

मैवम्; मात्राच्छन्दसां स्कन्धकादीनां छन्दोविचितिष्वेकैकस्याप्यनन्तभेदत्वात्। अन्ये तु भिन्नवृत्ताः सर्गान्ताः पर्वकाण्डसर्गा एतेष्विति व्याचक्षते। तेनायमर्थः संपद्यते

१. व्यासाष्टकवदिति तु स्यात्।

पर्वणिपर्वणि काण्डेकाण्डे सर्गेसर्गे चान्यदन्यच्छन्दो निबन्धनीयमति। आश्वासकसन्धिबन्धयोस्तु सर्वत्र एकमेव च्छन्दो भवति।

तन्न सम्यक्; आश्वासकबन्धेऽपि भिन्नवृत्तान्तत्वदर्शनात्। तद्यथा हरिप्रबोधे आर्यागीतिच्छन्दोनिबन्धक आश्वासकान्ते पुष्पिताग्रा—

भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम्।

गतमससितया(?) विभावरीणां सघनमहस्समताविभावरीणाम्॥ ३७२॥

सन्धिबन्धेषु च नाराचतोटकादीनि विचित्राणि च्छन्दांसि दृश्यन्ते। एकेनेव अनुष्टुब्जात्यादिना छन्दसा बहवः सर्गकाण्डादयो रघुवंश—रामायणादिषूपलभ्यन्ते। तस्मादुपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्येतदेव व्याख्यानं श्रेयः। तद्यथा कुमारसम्भवे—(कुसं.२.६४)

अथ स ललितयोषिद्‍भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।

सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ३७३॥

Showing 1281 to 1290 of 1530 verses