यथा रत्नावल्यां चतुर्थेऽङ्के,
वासवदत्ता— अमच्च! एसा खु सागरदो पाविदेत्ति भणिअ जोअन्धराअणेण मम हत्थे समप्पिदा। अदो एव्व साअरिअ त्ति सद्दाईदि। (अमात्य! एषा खलु नागरतः प्राप्तेति भणित्वा यौगन्धरायणेन मम हस्ते समर्पिता। अत एव सागरिकेति शब्दायते।)
वसूभूतिः— (जनान्तिकम्) बाभ्रव्य, यथा वसन्तकस्य कण्ठे रत्नमाला, (सागरिकां निर्दिश्य) यथा चास्याः सागरात् प्राप्तिस्तथा व्यक्तमेवेयं सिंहलेश्वरदुहिता रत्नावली, इति।
भीमः— देव अजातशत्रो! अद्यापि दुर्योधनहतकः!॥ २८७॥
भूमौ क्षिप्त्वा शरीरं निहतमिदमसृक्चन्दनाभं मयाङ्गे लक्ष्मीरार्ये नियुक्ता चतुरुदधिपयस्सीमया सार्धमुर्व्या।
भृत्या मित्राणि योधाः कुरुकुलमनुजैर्दग्धमेतद् रणाग्नौ नामैकं यद् ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम्॥
अनुभूतार्थकथनं निर्णयः समुदाहृतः॥ २८९॥