वासवदत्ता— रत्नावलि! समस्सुदु मे बहिणिआ। (रत्नावलि! समाश्वसितु मे भगिनिका।)
राजा— कथमुष्णांशुराजवंशप्रसूतस्य सिंहलेश्वरस्य विक्रमबाहोरात्मजेयम्।
विदूषकः— (आत्मगतम्) षडमं एव्व मए जाणिदं (रत्नमालां परामृश्य) ण हु ईदिसो सामण्णजणस्य विहवो होदि त्ति। (प्रथममेव मया ज्ञातम्, न खलु ईदृशः सामान्यजनस्य विभवो भवतीति।)
युधिष्ठिरः— वत्स, अनवरतं कथय कच्चिज्जीवति . . . ?
भीमसेनः— निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमोऽर्जुनश्च।
युधिष्ठिरः— पुनर्गाढमालिङ्ग्य तात!॥ २९०॥
रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः प्रियो भ्राता भीम त्वमसि मम योऽसौ बलरिपुः।
जरासन्धस्योरस्सरसि रुधिरागाधसलिले तटाघातक्रीडाललितमकरोत् संयति भवान्॥ २९१॥