परिवादकृतं यत् स्यात् तदाहुः परिभाषणम्॥ २९२॥
यथा रत्नावल्यां चतुर्थेऽङ्के
वसुभूतिः— आयुष्मति, समाश्वसिहि। नन्वियं ज्यायसी ते भगिनी दुःखमास्ते। तत् परिष्वजस्वैनाम्।
रत्नावली— {(समाश्वस्य, राजानं तं निरीक्षमाणा, स्वगतम्) किआवराहा खु अहं देवीए। ण सक्कुणोमि से मुहं दंसिदुं। (कृतापराधा खल्वहं देव्याः। न शक्नोमि तस्याः मुखं दर्शयितुम्।} इति।
भीमः—मुञ्चतु मामार्यः क्षणमेकम्।
युधिष्ठिरः— किमपरमवशिष्टम्?
भीमः— सुमहदवशिष्टम्। संयमयामि तावदनने दुश्शासनदुर्योधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुश्शासनसमाकृष्टं केशहस्तम्, इति॥ २९३॥