भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1331 to 1340 of 2002 verses
कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि।

कान्ते राज्ञः कुरूणामपि सरसमिदं मद्गदाचूर्णितोरो— रङ्गेऽङ्गेऽसृङ्‍‌निषक्तं तव परिभवजस्यानलस्यास्तु शान्त्यै॥ (वेसं. ६.४१)

५७. (५.७ प्रसादः)

शुश्रूषाद्युपसम्पन्नः प्रसाद इति कीर्तितः॥ २९७॥

(नाशा. १९.९५)

यथा रत्‍नावल्याम्—

वासवदत्ता— इअइ(?) एहि एत्तिअं वि दाव मे बहिणीत्तणस्स अणुरूवं होदु। (एहि, एतावदपि तावन्मे भगिनीत्वस्य अनुरूपं भवतु।) (इत्युक्त्वा रत्‍नावलीं स्वैरमाभरणैरलङकृत्य हस्ते गृहीत्वा राजानमुपसृत्य), अय्यउत्त एदं। (आर्यपुत्रं . . एनाम्।)इति।

यथा च वेणीसंहारे—

भीमः— (वेणीं बध्‍नन्), भवति, संयम्यतामिदानीं क्षत्त्रियकालरात्रिः कुरुपतिविघटिता वेणी।

द्रौपदी— णाह! विसुमरिद ह्मि एदं वावारम्। ता णाहस्स प्पसादेण पुणो वि सिक्खिस्सं। (नाथ, विस्मृतास्म्येतं व्यापारम्। तन्‍नाथस्य प्रसादेन पुनरपि शिक्षिष्ये।) इति ॥ २९८॥

Showing 1331 to 1340 of 2002 verses