सहायवर्णनं यथा रामायण—महाभारत—बृहत्कथा—मालतीमाधवादौ।
वाहनवर्णनं यथा हर्षचरित—कादम्बरी—हरिविजय—रावणविजयादौ।
हस्त्यश्वगरुत्मत्पुष्पकादिवर्णनादि।
मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदयवर्णनमित्यनेन अर्थप्रधानचेष्टानामुपदेशात् 'चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृत्' महाकाव्यादिकं भवतीत्यभिधत्ते। पुरुषकारायत्तां च नायकस्य सिद्धिं सूचयति। तत्र
मन्त्रः पञ्चाङ्गः कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिश्चेति। स यथा किरातार्जुनीय—शिशुपालवध— हयग्रीववध—भट्टिकाव्यादौ।
दूतस्त्रिधा— निसृष्टार्थः, परिमितार्थः शासनहरश्च। तत्र
निसृष्टार्थो यथा उद्योगपर्वणि वासुदेवः, हरिविजये वा सत्यकः।
परिमितार्थो यथा रामायणेऽङ्गदः।
शासनहरो यथा कादम्बर्यां केयूरक इति।
प्रयाणं त्रिधा— स्वशक्त्युपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र