अभ्युदयस्त्रिधा— अरिविजयः, स्त्रीलाभः, पुत्रोत्पत्तिरिति। तत्र—
अरिविजयो द्विधा— शत्रूच्छेदेन, तदुपनत्या च। स पूर्वो यथा रावणवधादौ।
स्त्रीलाभो यथा इन्दुमतीस्वयंवरे।
पुत्रलाभो यथा दिलीपस्य रघुवंश इति।
वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनमित्यनेन रसोद्दीपनविभावस्य सम्भोगशृङ्गारस्य उपदेशान्मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदयादिभिस्तांस्तानर्थानधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदुपयोगः कर्तव्य इति शिक्षयति। तत्र
वनविहारो द्विधा— मृगयादिभिः पुष्पापचयादिभिश्च।
तत्राद्यो यथा दशरथस्य रघुवंशे, दुष्यन्तस्य शाकुन्तले।
द्वितीयो यथा यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीये इति।
जलक्रीडा द्विधा— एकस्य वा बह्वीभिः स्वयोषाभिर्बहूनां वा बह्वीभिः यथास्वमङ्गनाभिः।