भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1361 to 1370 of 1530 verses
तत्राद्या यथा कार्तवीर्यस्य नर्मदायां, कुशस्य वा सरय्वाम्।

द्वितीया यथा अप्सरसां वा सिद्धसिन्धौ, यदूनां वा रैवतकह्रद इति।

मधुपानं द्विधा; गोष्ठीगृहे वासभवने च।

तत्राद्यं यथा हरिविजये शिशुपालवधे च।

द्वितीयं यथा कुमारसम्भवे किरातार्जुनीये च।

मानापगमो द्विधा— प्रायत्‍निको नैमित्तिकश्च।

प्रायत्‍निको यथा हरिविजये सत्यभामायाः, रत्‍नावल्यां वासवदत्तायाः; नैमित्तिको यथा रामातङ्कान्निशाचरीणां सेतुबन्धे, यथा वा मलयमारुतेन्दूदयादिभ्यो महाप्रबन्धेषु।

रतोत्सवोऽपि द्विधा— सामान्यतो विशेषतश्च।

सामान्यतो यथा किरातार्जुनीये शिशुपालवधे च।

विशेषतो यथा कुमारसम्भवे जानकीहरणे चेति।

Showing 1361 to 1370 of 1530 verses