अद्भूतस्य च संप्राप्तिर्भवेत् तदुपगूहनम्॥ ३०४॥
विदूषकः— ही ही भोः, हत्थगद एव्व संपदं वअस्सस्स। (हस्तगत एव सांप्रतं वयस्यस्य)
यथा च वेणीसंहारे (कृष्णः)— एते खलु भगवन्तो व्यासवाल्मीकिजामदग्न्य— जाबालिप्रभृतयो महर्षयः कल्पिताशेषमङ्गलाः नकुलसहदेवौ धृष्टद्युम्नप्रमुखाश्च सेनापतयः यादवमत्स्यमागधपाल कुलसम्भवाश्च राजन्यकुमाराः स्तम्भोत्तम्भिततीर्थवारिकलशाः तथा(?) अभिषेकं धारयन्तः तिष्ठन्ति ॥ ३०५॥ . . .
चास्माकंचार्वाकनाम्ना राक्षसेन विप्रकृतं भवन्तमुपलभ्य भगवतो व्यासाद् अर्जुनेन सह त्वरितमागत इति।
सामदानादिसम्पन्नं भाषणं ब्रुवते बुधाः॥ ३०६॥