भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1361 to 1370 of 2002 verses
अद्भूतस्य च संप्राप्‍तिर्भवेत् तदुपगूहनम्॥ ३०४॥

(नाशा. १९.९६)

यथा रत्‍नावल्यां

विदूषकः— ही ही भोः, हत्थगद एव्व संपदं वअस्सस्स। (हस्तगत एव सांप्रतं वयस्यस्य)

सुमति (वसुभूतिः) . . . .

यथा च वेणीसंहारे (कृष्णः)— एते खलु भगवन्तो व्यासवाल्मीकिजामदग्न्य— जाबालिप्रभृतयो महर्षयः कल्पिताशेषमङ्गलाः नकुलसहदेवौ धृष्टद्युम्‍नप्रमुखाश्च सेनापतयः यादवमत्स्यमागधपाल कुलसम्भवाश्च राजन्यकुमाराः स्तम्भोत्तम्भिततीर्थवारिकलशाः तथा(?) अभिषेकं धारयन्तः तिष्ठन्ति ॥ ३०५॥ . . .

चास्माकंचार्वाकनाम्‍ना राक्षसेन विप्रकृतं भवन्तमुपलभ्य भगवतो व्यासाद् अर्जुनेन सह त्वरितमागत इति।

६१. (५.११ भाषणम्)

सामदानादिसम्पन्नं भाषणं ब्रुवते बुधाः॥ ३०६॥

(नाशा. १९.९६)

Showing 1361 to 1370 of 2002 verses