वासवदत्ता— अय्यउत्त, दूरे क्खु एदाए ण्णादिउलम्। तानि तह करेदु जह एसा बन्धुजणं ण सुमरेदि। (आर्यपुत्र, दूरे खल्वेतस्या ज्ञातिकुलम्। तत्तथा कुरु यथा एषा बन्धुजनं न स्मरति।)
युधिष्ठिरः—भगवान् पुण्डरीकाक्षः वत्सः किरीटी च। भगवन्! कुतस्तस्य विजयादन्यत्, यस्य भगवान् पुरुषः स्वयमेव नारायणो मङ्गलान्याशास्ते ? ॥ ३०२॥ (वेसं. ६.४३)
कृतगुरुमहदादिक्षोभसम्भूतमूर्तिं गुणिनमुदयनाशस्थानंहेतुं प्रजानाम्।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां भवति जगति दुःखं, किं पुनर्देव दृष्ट्वा॥ ३०३॥