समागमस्तथार्थानामानन्दः परिकीर्तितः॥ २९९॥
यथा रत्नावल्यां चतुर्थेऽङ्के,
राजा—(हस्तौ प्रसार्य) को देव्याः प्रसादं न बहुमन्यते ? इति।
यथा (च) वेणीसंहारे षष्ठेऽङ्के, नेपथ्ये, समरानलशेषाय स्वस्ति तत्रभवतो राज्ञः
क्रोधान्धैर्यस्य मोक्षात् क्षतनरपतिभिः पाण्डुपुत्रैः कृताभि(नि) प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवान्तःपुराणि।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां दिष्ट्या बद्धः प्रजाभ्यो विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः॥ ३००॥
दुःखस्योपशमश्चैव समयोऽथ निगद्यते॥ ३०१॥