भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1341 to 1350 of 1530 verses
स्वशक्त्युपचये यथा रघुवंशे।

परव्यसने यथा जरासन्धव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे।

अभिमतार्थसिद्धये यथा विष्णोः पारिजातहरणाय हरिविजये, यथा वा दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीय इति।

सङ्ग्रामस्त्रिधा— समो, विषमः, समविषम इति। तत्र

समो द्वन्द्वयुद्धे चतुरङ्गयुद्धे च। द्वन्द्वयुद्धं यथा रामरावणयोः। चतुरङ्गं यथा कुरुपाण्डवानाम्।

विषमो यथा रामस्य खरदूषणत्रिशिरोभिः सह।

चतुर्दशसहस्त्राणि चतुर्दश च रक्षसाम्।

हतान्येकेन रामेण मानुषेण पदातिना॥ ३७९॥

(वारा. ३.२६.३५)

समविषमो यथा महेश्वरार्जुनयोः किरातार्जुनीये, रघुमघोनोर्वा रघुवंश इति।

Showing 1341 to 1350 of 1530 verses