ससिअरमुहुत्तमेहा तमपडिहत्था विणेंत्ति धूमुप्पीडाः॥ ३७०॥
(वनराजिकेशहस्ताः कुसुमायुधसुरभिसंचरद्ध्वजपटाः।
शशिकरमुहूर्तमेघास्तमः—प्रतिहस्ता विनिर्यन्ति धूमोत्पीडाः॥)
ववसाअरइपओसो. (सेब. १.१४; द्र. पृ. ३३९)
व्यतिरेकवद् यथा—(शाकु. २.१०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ३७१॥
सङ्कीर्णं चतुर्धा— सावयवसङ्कीर्णं, निरवयवसङ्कीर्णम्, उभयसङ्कीर्णं, श्लेषान्वितं च। सावयवसङ्कीर्णं यथा—(सेब. १.१७)
रइअरकेसरणिवहं सोहइ धवलब्भदलसहस्सपरिगअं।