उत्खण्डितकण्ठनालं पतितं स्फुटदशनकेसरं मुखकमलम्॥)
तो कुंभअण्णपडिवअणदंडपडिघट्टिआमरिसघोरविसो।
गलिअंसुअणिम्मोओ जाओ भीसणअरो दसाणणभुअओ॥ ३६६॥
(ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः।
गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः॥)
उभयावयवं यथा—(रुद्रटटीका ८.४३)
यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृद्ज्ञात्यादयः पल्लवाः।
स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दु्र्गतिः सा मे तवच्चरणार्हणापरशुना तृष्णालता लूयताम्॥ ३६७॥
विषमं यथा—(काव्याद. २.८०)