इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम्।
जगन्नेत्रेन्दुरस्माकं कथं तापाय कल्पते॥ ३६०॥
उभयप्रधानं चतुर्धा— शुद्धं, सविशेषणं, रशना माला च। तत्र
वेल्लितभ्रु गलद्घर्मजलमालोहितेक्षणम्।
विवृणोति मदावस्थामिदं वदनपङ्कजम्॥ ३६१॥
सविशेषणं यथा—(काव्याद. २.८१)
हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः।
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः॥ ३६२॥