अर्थप्रधानं चतुर्धा— समस्तविषयम्, एकदेशाविषयं, युक्तिमत् अयुक्तं च। तत्र समस्तविषयं यथा—(काव्याद. २.६९)
ताम्राङ्गुलिदलश्रेणिनखदिधीतिकेसरम्।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम्॥ ३५७॥
एकदेशविषयं यथा—(काव्याद. २.७१)
अकस्मादेव ते चण्डि ! स्फुरिताधरपल्लवम्।
मुखं मुक्तारुचो धत्ते घर्माम्भः—कणमञ्जरीः॥ ३५८॥
युक्तिमद् यथा—(काव्याद. २.७७)
स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम्।
न कास्यनन्दनं सुभ्रु ! सुरभिश्वसितानिलम्॥ ३५९॥
अयुक्तं यथा—(काव्याद. २.७८)