निशम्य ताः शेषगवीरभिधातुमधोक्षजः।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दृशा॥ ३४५॥
अथ वाक्यार्थदोषाणामदोषः। तत्र च —
१. समुदायार्थशून्यं यत् तदपार्थं प्रचक्षते।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति॥ ३४६॥ (काव्याद. ४.५)
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम्।