असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम्।
अदर्पं कन्दर्पं जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः॥ ३५२॥
४. संशयायैव सन्दिग्धं यदि जातु प्रयुज्यते।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा॥ ३५३॥
कत्तो लम्भइ पंथिअ सत्थरअं एत्थ गामणिघरम्मि।
उण्णअपओहरे पेक्खिऊण जइ वससि ता वससु॥ ३५४॥