भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1301 to 1310 of 1676 verses
किं वक्ष्यन्त्यपकल्पषाः कतधियो रेखैव सान्यादृशी

चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति॥ ३४७॥

२. यदप्रयोजनं यच्च गतार्थे व्यर्थमेव तत्।

तस्यापि क्‍वापि निर्दोषः प्रयोगो दृश्‍यते यथा॥ ३४८॥

गीता विदुरवाक्यानि धर्माः शान्तनवेरिताः।

न श्रुता भारते येन तस्य जन्म निरर्थकम्॥ ३४९॥

हृत्कण्ठवक्त्रश्रोत्रेषु कस्य नावस्थितं तव।

श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः॥ ३५०॥

३. अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते।

तदेकार्थं रसाक्षिप्‍तचेतसां तन्न दुष्यति॥ ३५१॥

Showing 1301 to 1310 of 1676 verses