यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ ३४१॥
१६. समस्तमसमस्तं वा न निर्वहति यद् वचः।
तदनिर्व्यूढमस्यापि न दोषः क्वापि तद्यथा॥ ३४२॥
प्रसीद चण्डि! त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः।
किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते॥ ३४३॥
१७. अनलङ्कारमित्याहुरलङ्कारोज्झितं वचः।
पूर्वोत्तरानुसन्धाने तस्य साधुत्वमिष्यते॥ ३४४॥