मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा।
वाहिनीजलभरः कुलिशं वा स्विस्ति तेऽस्तु लतया सह वृक्ष॥ ३३७॥
१४. असभ्यार्थं मतं ग्राम्यं तद् ग्राम्योक्त्यैव दुष्यति।
विदग्धोक्तौ तु तस्याहुर्गुणवत्त्वं मनीषिणः॥ ३३८॥
कामं कन्दर्पचण्डालो मयि वामाक्षि निर्दयः।
त्वयि निर्मत्सरो दिष्ट्येत्येवमादि यथोदितम्॥ ३३९॥
१५. ओजः समासभूयस्त्वं तद्दीप्तार्थेषु बध्यते।
विपर्ययोऽस्यासमस्तं दीप्तार्थं चैन्न दोषभाक्॥ ३४०॥