लीलाविलोलललनाललितालकलालसाः।
विलुप्तमालतीमाला जलकालानिला ववुः॥ ३३०॥
११. अनालोच्यैव वैषम्यमर्थालङ्कारडम्बरौ।
अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः॥ ३३१॥ (काव्याद. १.५०)
चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः।
स्पर्धते रुद्धमद्धैर्यो वररामाननानिलैः॥ ३३२॥
दीप्तमित्यपरैर्भूम्ना कठोरमपि बध्यते।