न्यक्षेण पक्षः क्षपितः क्षत्रियाणां क्षणादिति॥ ३३३॥
१२. आविद्वदङ्गनाबालप्रसिद्धार्थं प्रसादवत्।
विपर्ययोऽस्याप्रसन्नं चित्रादौ तन्न दुष्यति॥ ३३४॥
याश्रिता पावनतया यातनाच्छिदनीचया
याचनीया धिया मायायामायासं स्तुता श्रिया॥ ३३५॥
१३. अध्याहारादिगम्यार्थे नेयार्थमिति तद्विदुः।
प्रसिद्धेर्गम्यते यस्मिन्न च तद्दोषवद्यथा॥ ३३६॥