९. तेनाधिकोपमं व्याख्यातम्। यथा—(भामहा. २.५८, ५९)
स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः॥ ३२३॥
शशिनो ग्रहणादेतदाधिक्यं किल न ह्ययम्।
निर्दिष्ट उपमेयेऽर्थे वाच्यो वा जलजोऽत्र तु॥ ३२४॥
न सर्वसारूप्यमयं विस्तरेणोदितो विधिः।
अभिप्रायात्कवेर्वात्र विधेया जलजे मतिः॥ ३२५॥
भिन्नलिङ्गत्वमप्याहुरुपमादूषणं तथा।
वचोभेदो न दोषाय यत्रोद्वोगो न धीमताम्॥ ३२६॥