द्योतकलोपे पूर्णलुप्ता। यथा—(काव्याद. २.१९३, सक. ४.१२)
त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी।
कोमलापाटलौ तन्वि ! पल्लवश्चाधरश्च ते॥ ३४०॥
एकेवादिशब्दा, अनेकेवादिशब्दा, अनिवादिशब्दा असादृश्या च। तत्र— एकेवादिशब्दा यथा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ३४१॥
अनेकेवशब्दा यथा—(काव्याद. २.४५)
नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम्।
मया मधुव्रतेनेव पायम्पायमरम्यत॥ ३४२॥