ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम्।
प्रसीदत् सतां स्वान्तेष्वेकं त्रिपुरुषीमयम्॥ ३५९॥
वस्तुनिर्देशो यथा हयग्रीववधे—
आसीद् दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः।
वदन्ति स्म बलं बाह्वोः सितच्छत्रस्मिताः श्रियः॥ ३६०॥
वस्तूपक्षेपो यथा मारीचवधे—
मअवह-णिमित्तणिग्गअ-मइंदसुण्णं गुहं णिएऊण।
लद्धावसरो गहिऊण मोत्तिआइं गओ वाहो॥ ३६१॥
(मृगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य।