भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1231 to 1240 of 2002 verses
(नाशा. १९.८९)

यथा रत्‍नावल्यां 'सागरिका विपद्यते, तां परित्रायतां राजपुत्रः' इति वासवदत्तयोक्ते,

राजा— एष गच्छामि।

वसुभूतिः—किमयमकारणे पतङ्गवृत्तिः क्रियते ?

कञ्चुकी— युक्तमाह वसुभूतिः।

विदूषकः—(राजानमुत्तरीये गृहीत्वा) भो मा खु मा खु साहसं करइस्ससि। (भोः, मा खलु मा खलु साहसं कुरु!)

राजा— (उत्तरीयमुत्सृज्य)—'मूर्ख, सागरिका दह्यते। अहं प्राणान् बिभर्मि' इत्यारभ्य सर्वेष्वग्‍निप्रवेशं नाटयत्सु, राजा—'नन्वियमासन्ना वर्तते सागरिका। तत् त्वरितमेनां सम्भावयामि' इति यावत्।

यथा च वेणीसंहारे

कञ्चुकी बुद्धिमतिकामाह—कष्टम्! इदानीमयं दुरात्मा यथेष्टं प्रवर्तते। सर्वथाऽयं सम्प्रति देशकालोचितः प्रतीकारः। चितासमीपं नयाम्यत्रभवतीं पाञ्चालराजतनयाम्। त्वमपि भद्रे! देव्याः भ्रातरं धृष्टद्युम्‍नं नकुलसहदेवौ सम्भावय, इति। एतदवस्थे (महा)राजेऽस्तमितयोः भीमार्जुनयोरियमत्र परित्राणाशा, इति॥ २७६॥

४९. (४.१२ छादनम्)

Showing 1231 to 1240 of 2002 verses