क्वासौ ज्वलद्धुतवहस्तदवस्थमेत— दन्तःपुरं कथमवन्तिनृपात्मजेयम्।
बाभ्रव्य एष वसुभूतिरयं वयस्यः स्वप्ने मतिर्भ्रमति किं त्विदमिन्द्रजालम्॥ २८०॥
विदूषकः— भो मा संदेहं करेहि। भणिदं खु तेण दासीएउत्तेण इंदआलिएण एक्को उण खेलओ अवस्सं देवेण पेक्खिदव्वो त्ति। (भोः, मा सन्देहं कुरु। भणितं खलु तेन दास्याःपुत्रेण ऐन्द्रजालिकेन—एकः पुनः खेलकोऽवश्यं देवेन प्रेक्षितव्य इति।)
कञ्चुकी—(सहर्षं) महाराज, वञ्च्यसे। अयं खल्वायुष्मान् कुमारभीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीरम्बरो दुर्लक्षव्यक्तिः। तदलमधुना सन्देहेन, इति॥ २८१॥
(५. निर्वहणसन्धौ चतुर्दशाङ्गानि)