अन्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः॥ २८४॥
यथा रत्नावल्यां चतुर्थेऽङ्के
वसुभूतिः— देव, कुत इयं कन्यका?
युधिष्ठिरः— (स्वैरमुक्त्वा भीमसेनमवलोकयन्नंसे परामृश्य) जृयंधर, सत्यं कथयामि। नायमनुजवैरी। वत्स, बाष्पजलात्नरितनयनत्वान्न पश्यामि ते मुखचन्द्रम्, इति॥ २८५॥
उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम्॥ २८६॥