अथ निर्वहणाङ्गानि चतुर्दश। तेषु—
मुखबीजोपगमनं सन्धिरित्यभिधीयते॥ २८२॥
यथा रत्नावल्यां चतुर्थेऽङ्के
वसुभूतिः अग्निविद्रवानन्तरं रत्नावलीं विलोक्याह — बाभ्रव्य, सदृशीयं राजपुत्र्याः।
बाभ्रव्यः— ममाप्येतदेव मनसि वर्तते।
चेटी— (द्रौपदीमालिङ्ग्य) णिवत्तदु देवी इमादो मअणववसाआदो। अअं क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुवं एव्व अण्णेसेदि। {(निवर्ततां देवी अस्मान्मरणव्यवसायात्। अयं खलु पूरितप्रतिज्ञाभा रो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति)।}॥ २८३॥