अपमानकृतं वाक्यं कार्यार्थं छादनं भवेत्॥ २७७॥ (नाशा. १९.८९)
सागरिका— (दिशो विलोक्य, सहर्षम्) समंतदो पज्जलिदो भअवं हुदासणो। दिट्ठिआ अज्ज मे करइस्सिदि दुःखावसाणं। (समन्ततः प्रज्वलितो भगवान् हुताशनः। दिष्ट्या अद्य मे करिष्यति दुःखावसानम्) इति।
यथा च वेणीसंहारे (नेपथ्ये)—'भो भोः समन्तपञ्चकसञ्चरिणः!' इत्याद्युपक्रम्य
ऊरू करेण परिघट्टयतः सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या।
दुश्शासनाग्रकरकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्व पुनः प्रदेशे॥
प्ररोचना सा विज्ञेया संहारार्थप्रदर्शिनी॥ २७९॥