लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याधः॥)
संबन्धादिमदादिवाक्यत्वमित्यनेन स्ववंशादिकीर्तनं, वक्तव्यार्थप्रतिज्ञानं, तत्प्रयोजनोपन्यासः, कविप्रशंसा, दुर्जनसुजनस्वरूपमित्यादयः संगृह्यन्ते। तत्र—
स्ववंशादिकीर्तनं यथा कादम्बर्याम्—'बभूव वात्स्यायनवंशसंभव' इत्युपक्रम्य,
द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया।
अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा॥ ३६२॥
वक्तव्यार्थप्रतिज्ञानं यथा सेतुबन्धे—(१.१२)
तं तिअसबंदिमोक्खं समत्थतेल्लोक्कहिअअसल्लुद्धरणं।
सुणह अणुराअइण्हं सीआदुक्खक्खअं दहमुहस्स वहं॥ ३६३॥
(तं त्रिदशबन्दिमोक्षं समस्तत्रैलोक्यहृदयशल्योद्धरणम्।
शृणुतानुरागचिह्नं सीतादुःखक्षयं दशमुखस्य वधम्॥)