प्रयोजनोपन्यासो यथा तत्रैव—(सेब. १.१०)
परिवढ्ढइ विण्णाणं संभाविज्जइ जसो विढप्पंति गुणा।
सुव्वइ सुउरिसचरिअं किं तं जेण ण हरंति कव्वालावा॥ ३६४॥
(परिवर्धते विज्ञानं संभाव्यते यशोऽर्ज्यन्ते गुणाः।
श्रूयते सुपुरुषचरितं किं तद् यन्न हरन्ति काव्यालापाः॥)
कविप्रशंसा यथा रावणविजये—
सअलं चेअ णिबंधं दोहि पएहि कलुसं पसण्णं च ठिअं।
जाणंति कईण कई सुद्धसहावेहि लोअणेहि व हिअअं॥ ३६५॥
(सकलमेव निबन्धनं द्वाभ्यां पदाभ्यां कलुषं प्रसन्नं च स्थितम्।
जानन्ति कवीनां कवयः शुद्धस्वमावाभ्यां लोचनाभ्यामिव हृदयम्॥)