एकाक्षरपादो यथा (तत्रैव)—(माघ. १९.३)
जजौजोजाजिजिज्जा जी तं ततोऽतिततातितुत्।
भाभोऽभीभाभिभूभाभूरारारिररिरीररः ॥ ३६९॥
यमकं यथा तत्रैव—(माघ. १९.९)
पृथोरध्यक्षिपद् रुक्मी यया चापमुदायुधः।
तयैव वाचापगमं ययाचापमुदा युधः॥ ३७०॥
भाषाचित्रं मालतीमाधवे—(मामा. ६.११)
किं वा भणामि विच्छेददारुणायासकारिणि।
कामं कुरु वरारोहे देहि मे परिरम्भणम्॥ ३७१॥
भिन्नवृत्तसर्गान्तत्वमित्यनेन भिन्नपर्वान्तत्वं, भिन्नकाण्डान्तत्वं, भिन्नसर्गान्तत्वं, भिन्नाश्वासकान्तत्वं, भिन्नसन्ध्यन्तत्वमित्यादीन्युपसंगृह्यन्ते। सर्गग्रहणस्य छत्रिणो गच्छन्तीतिवत् सहचरितोपलक्षणत्वात्। एतेन वृत्तग्रहणेन न केवलं गणच्छन्दो मात्राक्षरच्छन्दोऽपि परिगृहीतं भवति।