कविभावाङ्कितसमाप्तिवाक्यत्वमित्यनेन 'स्वाभिप्रायाङ्कता स्वनामाङ्कता इष्टनामाङ्कता, मङ्गलाङ्कता, आशंसाङ्कता' च संगृह्यन्ते। तेषु —
अभिप्रायाङ्कता यथा धैर्यमाढ्यराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति।
स्वनामाङ्कता यथा स्वप्रबन्धेषु गोविन्दचतुर्मुखादीनां, यथा च राजशेखरस्य हरविलासे।
इष्टनामाङ्कता यथा लक्ष्म्यङ्कता किराते भारवेः, श्रयङ्कता शिशुपालवधे माघस्य, चतुर्मुख—गोविन्द—चन्द्रशेखरेष्टदेवतानामाङ्कता च पूर्वोक्तेषु पूर्वोक्तानामिति।
मङ्गलाङ्कता यथा— अभ्युदयः कृष्णचरिते, जय उषाहरणे, आनन्दः पञ्चशिखशूद्रककथायामिति।
आशंसा(ङ्कता) धर्मार्थकाममोक्षविषया। तासु
धर्मविषया यथा उत्तररामचरिते—(उ.रा.च. ७.२१)
पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि येयं कथा
मङ्गल्या च मनोहरा च जगतां मातेव गङ्गेव च।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः