शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमपि॥ ३७४॥
अर्थविषया यथा—(विक्रमो. ५.२४)
परस्परविरोधिन्योरेकसंश्रयदुर्लभम् ।
संगतं श्रीसरस्वत्योर्भूतयेऽस्तु सतां भुवि॥ ३७५॥
मम हृदयमशङ्कितव्यलीकं समसुखदुःखमजातविप्रयोगम्।
अनुभवतु मुदः सदैव यूनां मिथुनमभीष्टतमास्तव प्रसादात्॥ ३७६॥
मोक्षविषया यथा—(शाकु. ७.३५)
प्रवर्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतिमहतां महीयताम्।
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः॥ ३७७॥