एतेनान्यदपि व्याख्यातम्। तद्यथा—
यावल्लीलावतीनामनणुमणिरणत्किङ्किणीक्वाणकूजत्— काञ्चीदामोपनद्धाः पृथुजघनतटीः पञ्चबाणोऽधिशेते।
यावच्च भ्रूविलासस्सकलजनमनोहारिणः सुन्दरीणां तस्यैवास्त्रीभवन्ति त्रिभुवनविजये तावदेवास्तु कीर्त्तिः॥ ३७८॥
नगराश्रमशैलसैन्यावासार्णववर्णनमित्यनेन अर्थालङ्कारेषु देशप्रशंसामुपदिशति। तत्र —
नगरवर्णनं यथा सेतुबन्ध—हरिविजय—शिशुपालवध—कुमारसम्भवादौ।
आश्रमवर्णनं यथा रघुवंश—किरातार्जुनीय—कादम्बरी—शाकुन्तलादौ।
शैलवर्णनं यथा किरातार्जुनीय—शिशुपालवध—सेतुबन्ध—हरिविजयादौ।
सैन्यावासवर्णनं यथा शिशुपालवध—किरातार्जुनीय—रावणविजय—रघुवंशादौ।
अर्णववर्णनं यथा सेतुबन्ध—हरिविजय—रघुवंशादौ।
ऋतुरात्रिन्दिवार्कास्तमयचन्द्रोदयादिवर्णनमित्यनेन कालावस्थोपवर्णनं लक्षयति। तत्र