किसलयकरैर्लतानां करकमलैर्मृगदृशां जगज्जयति।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः॥ ३६३॥
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥ ३६४॥
सावयवं चतुर्धा— सहजावयवम्, आहार्यावयवम्, उभयावयवं विषमं च।
पप्फुरिअउठ्ठदलअं तक्खणविगलिअरुहिरमहुविच्छड्ड।
उक्खडिदअंठणालं पडिअं फुडदसणकेसरं मुहकमलं॥ ३६५॥
(प्रस्फुरितोष्ठदलं तत्क्षणविगलितरुधिरमधुविच्छर्दम्।