ऋतुवर्णनं शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध—हरिविजय—रघुवंश—हरिवंशादौ।
रात्रिवर्णनं यथा किरातार्जुनीय—कुमारसम्भव—शिशुपालवध—हयग्रीववधादौ।
प्रभातपूर्वाह्णापराह्णमध्याह्नवर्णनानि शिशुपालवध—रामचरित—उत्तररामचरित— किरातार्जुनीयादौ।
अर्कास्तमयवर्णनं यथा कुमारसम्भव—हरिविजय—सेतुबन्धादौ।
चन्द्रोदयवर्णनं यथा कुमारसम्भव—किरातार्जुनीय—शिशुपालवध—सेतुबन्धादाविति।
नायकनायिकाकुमारसहायवाहनादिवर्णनमित्यनेन पात्रविशेषाभिनन्दनं सूचयति। तत्र
नायकवर्णनं यथा हरिविजय—रावणविजय—जानकीहरण—रघुवंशादौ।
नायिकावर्णनं यथा कुवलयाश्वचरित—कुमारसम्भव—जानकीहरण—सुभद्राहरणादौ।
कुमारवर्णनं यथा रघुवंश—उत्तरचरित—कादम्बरी—हर्षचरितादौ।