१ईर्ष्याकोपप्रशमनं द्युतिमाचक्षते बुधाः॥ २९४॥
यथा रत्नावल्यां चतुर्थेऽङ्के,
वासवदत्ता— (वसुभूतिमपवार्य), अय्यउत्त, लज्जामि क्खु अहं इमिणा णिसंसत्तणेण। ता अवणेहि से बंधणं। (आर्यपुत्र, लज्जे खल्वहमनेन नृशंसत्वेन। तदपनयास्या बन्धनम्।)
राजा— (सपरितोषम्) यथाह देवी। (इति मोचयति।)
वासवदत्ता—(वसुभूतिमुद्दिश्य) अय्य, जोअन्धराअणेण अत्तिअं कालं दुज्जणीकिद ह्मि। जेण मे जाणिअ णाचक्खिदं। (आर्य, यौगन्धरायणेनैतावन्तं कालं दुर्जनीकृतास्मि। येन मे ज्ञात्वा नाख्यातम्।)
१. लब्धस्यार्थस्य शम. नाशा. १९.९४
भीमः—राजपुत्रि, अलं मामालोक्य त्रासेन ॥ २९५॥