वसुभूतिः—आयुष्मति अयि रत्नावलि! त्वमेतामवस्थां प्राप्तासि ?
सागरिका—(सप्रत्यभिज्ञम्) तुमं पि किं अमच्चवसुभूदी? (त्वमपि किम् अमात्यवसुभूतिः ?)
वसुभूतिः—स एवाहं मन्दभाग्यः।
सागरिका—सा क्खु अहं मंदभाइणी। (सा खल्वहं मन्दभागिनी।)
वसुभूतिः—हा हतोऽस्मि! (इति भूमौ पतति।)
सागरिका—हा ताद, हा (हा, तात! हा,)
(वासवदत्ता)—किचुलआ किं एसा मे बहिणिआ रअणावली। (कञ्चुकिन्, किमेषा मे भगिनिका रत्नावली!)